|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.50. अध्यायः 050
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥ अश्वत्थाम्ना युधिष्ठिरपराजयः॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-50-0x(4968)(57441)
द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम्।
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत्॥ 8-50-1(57442)
किरन्निषुगणान्घोरान्हेमपुङ्खाञ्शिलाशितान्।
दर्शयन्विविधान्मार्गाञ्शिक्षया लघुहस्तवान्॥ 8-50-2(57443)
खं पुरयञ्शरैस्तीक्ष्णैर्वेगवद्भिः समन्ततः।
युधिष्ठिरस्य समरे दिशः सर्वाः समावृणोत्॥ 8-50-3(57444)
भारद्वाजशरैश्छन्नं न प्राज्ञायत किञ्चन।
बाणभूतमभूत्सर्वमायोधनशिरो महत्॥ 8-50-4(57445)
बाणजालं दिविष्ठं तत्स्वर्णपुङ्खविभूषितम्।
शुशुभे भरतश्रेष्ठ विमानमिव विष्ठितम्॥ 8-50-5(57446)
तेन च्छन्ने रणे राजन्बाणजालेन भास्वता।
अभ्रच्छायेव सजज्ञे हृतरश्मिस्तमोनुदः॥ 8-50-6(57447)
तदद्भुतमपश्याम बाणभूते नभस्थले।
न स्म सम्पतते भूतं द्रौणेर्दृष्ट्वा पराक्रमम्॥ 8-50-7(57448)
सात्यकिर्यतमानस्तु धर्मराजस्तु पाण़्डवः।
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम्॥ 8-50-8(57449)
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः।
व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम्॥ 8-50-9(57450)
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम्।
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः॥ 8-50-10(57451)
सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः।
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिभुपाद्रवन्॥ 8-50-11(57452)
सात्यकिः सप्तविंशत्या द्रौणिं विद्ध्वा शिलीमुखैः।
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः॥ 8-50-12(57453)
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः।
श्रुतकर्मा त्रिभिर्वाणैः श्रुतकीर्तिश्च सप्तभिः। 8-50-13(57454)
सुतसोमस्तु नवभिः शतानीकश्च सप्तभिः।
अन्ये च वहवः शूरा विव्यधुस्तं समन्ततः॥ 8-50-14(57455)
स तु क्रुद्धस्ततो राजन्नाशीविप इव श्वसन्।
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलीमुखैः॥ 8-50-15(57456)
श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः।
अष्टभिः श्रुतकर्माणं प्रतिबिन्ध्यं त्रिभिः शरैः॥ 8-50-16(57457)
शतानीकं च नवभिर्धर्मपुत्रं च पञ्चभिः।
तथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत्।
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः॥ 8-50-17(57458)
अथान्यद्वनुरादाय श्रुतकीर्तिर्महारथः।
द्रौणायनिं त्रिभिर्विद्व्वा विव्याधान्यैः शितैः शरैः॥ 8-50-18(57459)
ततो द्रौणिर्महाराज शरवर्षेण भारिष।
छादयामास तत्सैन्यं समन्ताद्भरतर्षभ॥ 8-50-19(57460)
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम्।
द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः॥ 8-50-20(57461)
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः।
द्रोणपुत्रं त्रिपष्टxx ततु बाह्वोरुरसि चार्पययत्॥ 8-50-21(57462)
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे।
अर्धचन्द्रेणतीक्ष्णेन धनुश्छित्त्वाऽनदद्भृशम्॥ 8-50-22(57463)
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः।
सारथिं पातयामास शैनेयस्य रथाद्रुतम्॥ 8-50-23(57464)
अथान्यद्वनुरादाय द्रोणपुत्रः प्रतापवान्।
शैनेयं शरवर्षेण च्छादयामास भारत॥ 8-50-24(57465)
तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ।
तत्रतत्रैव धावन्तः समदृश्यन्त भारत॥ 8-50-25(57466)
युधिष्ठिरपुरोगास्तु द्रौणिं शस्त्रभृतां वरम्।
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्छरान्॥ 8-50-26(57467)
सहसा पततस्तान्वै क्रुद्वरूपान्परन्तपः।
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे॥ 8-50-27(57468)
ततः शरशतज्वालः सेनाकक्षं महारणे।
द्रौणिर्ददाह समरे कक्षमग्निरिवोत्थितः॥ 8-50-28(57469)
तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम्।
चुक्षुभे भरतश्रेष्ठ तस्मिन्नेव चमूमुखे॥ 8-50-29(57470)
तद्बलं पाण्डवेयस्य द्रोणपुत्रः शरार्चिषा।
तापयन्भरतश्रेष्ठ गभस्तिभिरिवांशुमान्॥ 8-50-30(57471)
तत्पच्यमानं मर्षेण ब्राह्मणस्य च सायकैः।
क्षुभ्यते पाण्डवं सैन्यं तिमिनेव नदीमुखम्॥ 8-50-31(57472)
दृष्ट्वा चैव महाराज द्रोणपुत्रपराक्रमम्।
सर्वान्दुर्योधनः पार्थान्हतान्युद्वेऽभ्यमन्यत॥ 8-50-32(57473)
युधिष्ठिरस्तु त्वरितो द्रौणिं पीड्य महारथम्।
अब्रवीद्द्रोणपुत्रं स रोषामर्षसमन्वितः॥ 8-50-33(57474)
`जानामि त्वां युधि श्रेष्ठ वीर्यवन्तं बलान्वितम्।
कृतास्त्रं कृतिनं चैव तथा लघुपराक्रमम्॥ 8-50-34(57475)
बलमेतद्भवान्सर्वं पार्षते यदि दर्सयेत्।
ततस्त्वां बलवन्तं च कृतविद्यं च विद्महे॥ 8-50-35(57476)
न हि वै पार्पतं दृष्ट्वा समरे शत्रुसूदनम्।
भवेत्तव बलं किञ्चिद्ब्रवीमि त्वां न तु द्विजम्'॥ 8-50-36(57477)
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता।
यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि॥ 8-50-37(57478)
ब्राह्मणेन तपः कार्यं शमश्च दमएव च।
क्षत्रियेण धनुर्नाभ्यं स भवान्ब्राह्मणब्रुवः॥ 8-50-38(57479)
मिषतस्ते महावाहो युधि जेष्यामि कौरवान्।
कुरुष्व समरे कर्म ब्रह्मबन्धे यथेष्टतः॥ 8-50-39(57480)
एवमुक्तो महाराज द्रोणपुत्रः सयन्निव।
युक्त तत्त्वं च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत्॥ 8-50-40(57481)
अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम्।
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः॥ 8-50-41(57482)
स च्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष।
पार्थोऽपयातः शीघ्रं वै प्रगृह्य महतीं चमूम्॥ 8-50-42(57483)
अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे।
द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः॥ 8-50-43(57484)
ततो युधिष्ठिरो राजंस्त्यक्त्वा द्रौणिं महाहवे।
प्रययौ तावकं सैन्यं युक्तः क्रुराय कर्मणे॥ ॥ 8-50-44(57485)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चाशोऽध्यायः॥ 50 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|